|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.302. अध्यायः 302
Mahabharata - Vana Parva - Chapter Topics
सूर्येण हेतुकथनपूर्वकं पुनरिन्द्राय कवचकुण्डलदानप्रतिधोक्तिः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
सूर्य उवाच। 3-302-0x(2825)(27593)
माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा।
पुत्राणामथ भार्याणामथो मातुरथो पितुः ॥ 3-302-1(27594)
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर।
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ॥ 3-302-2(27595)
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्।
सा ते प्राणान्समादाय गमिष्यति न संशयः ॥ 3-302-3(27596)
जीवतां कुरुते कार्यं पिता माता सुतास्तथा।
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ॥ 3-302-4(27597)
राजानश्च नरव्याघ्र पौरुषेण निबोध तत्।
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते ॥ 3-302-5(27598)
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः।
मृतः कीर्तिं न जानीते जीवन्कीर्ति समश्नुते ॥ 3-302-6(27599)
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः।
अहं तु त्वां ब्रवीम्येतद्भक्तोसीति हितेप्सया ॥ 3-302-7(27600)
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना।
भक्तोयं परया भक्त्या मामित्येव महाभुज ॥ 3-302-8(27601)
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम।
अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम्।
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ॥ 3-302-9(27602)
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ।
नस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ॥ 3-302-10(27603)
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्।
माऽस्मै ते कुण्डले दद्या भिक्षिते वज्रापाणिना ॥ 3-302-11(27604)
शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते।
विशाखयोर्मध्यगतः शशीव विमले दिवि ॥ 3-302-12(27605)
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्।
प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः ॥ 3-302-13(27606)
`पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृत्'।
शक्त्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ।
विहन्तुं देवराजस् हेतुयुक्तैः पुनःपुनः ॥ 3-302-14(27607)
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः।
पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ॥ 3-302-15(27608)
त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना।
सव्यसाची त्वया चेह युधि शूरः समेष्यति ॥ 3-302-16(27609)
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्।
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ॥ 3-302-17(27610)
तस्मान्न देये शख्राय त्वयैते कुण्डले शुभे।
संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ॥ 3-302-18(27611)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि द्व्यधिकत्रिशततमोऽध्यायः ॥ 302 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-302-4 जीवतां पत्रादीनां कार्यं प्रयोजनं परिष्वङ्गादिजं सुखं पित्रादिः कुरुते लभते ॥ 3-302-8 मां मम ॥ 3-302-12 विशाखयोः विशाखानक्षत्रस्य द्वे भास्वरे तारे तयोर्मध्ये गतः पूर्णचन्द्रः ॥ 3-302-14 विद्वन्तुं शक्येति संबन्धः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|